|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.2. अध्यायः 002
Mahabharata - Vana Parva - Chapter Topics
युधिष्ठिरेण वने स्वानुयायिनो ब्राह्मणान्प्रति स्वस्य हृतसर्वस्वतया तद्भरणस्य दुष्करत्वकथनपूर्वकं प्रतिनिवर्तनप्रार्थना ॥ 1 ॥ ब्राह्मणैः स्वयमेवत्मभरणपूर्वकं स्वसहवासमात्रेऽर्थिते युधिष्ठिरेण स्वस्य तद्भरणाशक्तिचिन्तनेन विषादाधिगमः ॥ शौनकेन युधिष्ठिरंप्रति ब्राह्मणभरणाय तपसा सिद्धिसंपादनचोदना ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-2-0x(1755)(15672)
प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम्।
वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः।
तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः ॥ 3-2-1(15673)
वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः।
फलमूलामिषाहारा वनं यास्याम दुःखिताः ॥ 3-2-2(15674)
वनं च दोषबहुलं बहुव्यालसरीसृपम्।
परिक्लेशश्चवो मन्ये ध्रुवं तत्र भविष्यति ॥ 3-2-3(15675)
ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत्।
किंपुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः ॥ 3-2-4(15676)
ब्राह्मणा ऊचुः। 3-2-5x(1756)
गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः।
नार्हथास्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिन ॥ 3-2-5(15677)
स्नेहकर्माणि भक्तेषु दैवतान्यपि कुर्वते।
विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु ॥ 3-2-6(15678)
युधिष्ठिर उवाच। 3-2-7x(1757)
ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः।
सहायविपरिभ्रंशस्त्वयं सादयतीव माम् ॥ 3-2-7(15679)
आहरेयुर्हि ये सर्वे फलमूलमृगांस्तथा।
त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः ॥ 3-2-8(15680)
द्रौपद्या विप्रकर्षेण राज्यापहरणेन च।
दुःखार्दितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे ॥ 3-2-9(15681)
ब्राह्मणा ऊचुः। 3-2-10x(1758)
अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव।
स्वयमाहृत्य वन्यानि त्वानुयास्यामहे वयम् ॥ 3-2-10(15682)
अनुध्यानेन जप्येन विधास्यामः शिव तव।
कथाभिश्चानुकूलाभिः सह रंस्यामहे वने ॥ 3-2-11(15683)
युधिष्ठिर उवाच। 3-2-12x(1759)
एवमेतन्न संदेहो रमेयं ब्राह्मणैः सह।
न्यूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः ॥ 3-2-12(15684)
कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृत्य भोजिनः।
मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान् ॥ 3-2-13(15685)
वैशम्पायन उवाच। 3-2-14x(1760)
इत्युक्त्वा नृपतिः शोचन्निषसाद महीतले ॥ 3-2-14(15686)
तमध्यात्मरतो विद्वाञ्शौनको नाम वै द्विजः।
योगे साङ्ख्ये च कुशलो राजानमिदमब्रवीत् ॥ 3-2-15(15687)
शोकस्थानसहस्राणि हर्षस्थानशतानि च।
दिवसेदिवसे मूढमाविशन्ति न पण्डितम् ॥ 3-2-16(15688)
न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु।
श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ 3-2-17(15689)
अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोभिघातिनीम्।
श्रुतिस्मृतिसमायुक्तां राजन्सा त्वय्यवस्थिता ॥ 3-2-18(15690)
`शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा।
ऊहापोहोऽर्थविज्ञानं तत्वज्ञानं च धीगुणाः ॥' 3-2-19(15691)
अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनेष्वपि।
शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः ॥ 3-2-20(15692)
श्रूयतां चाभिधास्यामि जनकेन यथा पुरा।
आत्मव्यवस्थानकरागीताः श्लोका महात्मना ॥ 3-2-21(15693)
मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत्।
तयोर्व्याससमासाभ्यांशमोपायमिमं शृणु ॥ 3-2-22(15694)
व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात्।
दुःखं चतुर्भिः शारीरं कारणैः संप्रवर्तते ॥ 3-2-23(15695)
तदा तत्प्रतिकाराच्च सततं चाविचिन्तनात्।
आधिव्याधिप्रशमनं क्रियायोगबलेन तु ॥ 3-2-24(15696)
मतिमन्तो व्यथोपेताः शमं प्रागेव कुर्वते।
मानसस्य प्रियाख्यानैः संभोगोपनयैर्नृणाम् ॥ 3-2-25(15697)
मानसेन हि दुःखेन शरीरमुपतप्यते।
अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम् ॥ 3-2-26(15698)
मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना।
प्रशन्ते मानसे दुःखे शारीरमुपशाम्यति ॥ 3-2-27(15699)
मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते।
स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च ॥ 3-2-28(15700)
स्नेहमूलानि दुःखानि स्नेहजानि भयानि च।
शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते ॥ 3-2-29(15701)
स्नेहात्कारुण्यरागौ च प्रजास्वीर्ष्यादयस्तथा।
अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः ॥ 3-2-30(15702)
कोटराग्निर्यथाऽशेषं समूलं पादपं दहेत्।
धर्मार्थिनं तथाऽल्पोपि रागदोषो विनाशयेत् ॥ 3-2-31(15703)
विप्रयोगे न तु त्यागी दोषदर्शी समागमे।
विरागं भजते जन्तुर्निर्वैरो निष्परिग्रहः ॥ 3-2-32(15704)
तस्मात्स्नेहं स्वपक्षेभ्यो मित्रेभ्यो धनसंचयात्।
स्वशरीरसमुत्थं च ज्ञानेन विनिवर्तयेत् ॥ 3-2-33(15705)
ज्ञानान्वितेषु युक्तेषु शास्त्रज्ञेषु कृतात्मसु।
न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम् ॥ 3-2-34(15706)
रागाभिभूतः पुरुषः कामेन परिकृष्यते।
इच्छा संजायते तस्य ततस्तृष्णा विवर्धते ॥ 3-2-35(15707)
तृष्णा हि सर्वपापिष्ठा नित्योद्देगकरी नृणाम्।
अधर्मबहुला चैव घोरा पापानुबन्धिनी ॥ 3-2-36(15708)
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः।
योसौ प्राणान्तिको रोगस्तां तृष्णांत्यजतः सुखम् ॥ 3-2-37(15709)
अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम्।
विनाशयति भूतानि अयोनिज इवानलः ॥ 3-2-38(15710)
यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति।
तथाऽकृतात्मा लोभेन सहजेन विनश्यति ॥ 3-2-39(15711)
राजतः सलिलादग्नेश्चोरतः स्वजनादपि।
`अर्थिभ्यः कालतस्तस्मान्नित्यमर्थवतां भयम्'।
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ॥ 3-2-40(15712)
यथा ह्याभिषमाकाशे पक्षिभिः श्वापदैर्भुवि।
भक्ष्यते सलिले मत्स्यैस्तथा सर्वेण वित्तवान् ॥ 3-2-41(15713)
अर्थ एव हि केषांचिदनर्थं भजते नृणाम्।
अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः।
तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः ॥ 3-2-42(15714)
कार्पण्यं दर्पमानौ च भयमुद्वेग एव च।
अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम् ॥ 3-2-43(15715)
अर्थस्योपार्जने दुःखमार्जितानां च रक्षणे।
नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात् 3-2-44(15716)
अर्था दुःखं परित्यक्तुं पालिताश्चैव शत्रवः।
दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत् ॥ 3-2-45(15717)
असन्तोषपरा मूढाः संतोषं यान्ति पण्डिताः।
अन्तो नास्ति पिपासायाः संतोषः परमं सुखम्।
तस्मात्संतोषमेवेह परं पश्यन्ति पण्डितः ॥ 3-2-46(15718)
अनित्यं यौवनं रूपं जीवितं रत्नसंचयः।
ऐश्वर्यं प्रियसंवासो गृद्ध्येत्तत्र न पण्डितः ॥ 3-2-47(15719)
त्यजेत स च यांस्तस्मात्तज्जान्क्लेशान्सहेत च।
न हि संचयवान्कश्चिद्दृश्यते निरुपद्रवः।
अतश्च धार्मिकैः पुम्भिरनीहार्थः प्रशस्यते ॥ 3-2-48(15720)
धर्मार्थं यस्य वित्तेहा वरं तस्य नरीहता।
प्रक्षालनाद्धि पङ्कस्य श्रेयो ह्यस्पर्शनं नृणाम् ॥ 3-2-49(15721)
युधिष्ठिरैवमर्थेषु न स्पृहां कर्तुमर्हसि।
धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः ॥ 3-2-51xयुधिष्ठिर उवाच। 3-2-50(15722)
नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम।
भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः ॥ 3-2-51(15723)
कथं ह्यस्मद्विधो ब्रह्मन्वर्तमानो गृहाश्रमे।
भरणं पालनं चापि न कुर्यादनुयायिनाम् ॥ 3-2-52(15724)
संविभागो हि भूतानां सर्वेषामेव दृश्यते।
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना ॥ 3-2-53(15725)
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता।
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन ॥ 3-2-54(15726)
देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम्।
तृषितस्य च पानीयं क्षुधितस्य च भोजनम् ॥ 3-2-55(15727)
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम्।
उत्थाय चासनं दद्यादेष धर्मः सनातनः।
प्रत्युत्थायाभिगमनं कुर्यान्न्यायेन चार्चनाम् ॥ 3-2-56(15728)
अग्निहोत्रमनड्वांश्च ज्ञातयोऽतिथिवान्धवाः।
पुत्रा दाराश्च भृत्याश्च निर्दहेयुरपूजिताः ॥ 3-2-57(15729)
आत्मार्थं पाचयेन्नान्नं न वृथा घातयेत्पशून्।
न चैकः स्वयमश्नीयाद्विधिवर्जं न निर्वपेत् ॥ 3-2-58(15730)
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि।
वैश्वदेवं हि नामैतत्सायं प्रातश्च दीयते ॥ 3-2-59(15731)
विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः।
विघसो भुक्तशेषं तु यज्ञशेषं तथाऽमृतम् ॥ 3-2-60(15732)
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम्।
अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः ॥ 3-2-61(15733)
यो दद्यादपरिक्लिष्टमन्नमद्वनि वर्तते।
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् ॥ 3-2-62(15734)
एवं यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे।
तस्य धर्मं परंप्राहुः कथं वा विप्र मन्यसे ॥ 3-2-63(15735)
शौनक उवाच। 3-2-64x(1761)
अहो बत महत्कष्टं विपरीतमिदं जगत्।
येनापत्रपते साधुरसाधुस्तेन तुष्यति ॥ 3-2-64(15736)
शिश्नोदरकृतेऽप्राज्ञः करोति विषसं बहु।
मोहरागवशाक्रान्त इन्द्रियार्थवशानुगः ॥ 3-2-65(15737)
ह्रियते बुध्यमानोपि नरो हारिभिरिन्द्रियैः।
विमूढसंज्ञो दुष्टाश्वैरुद्धान्तैरिव सारथिः ॥ 3-2-66(15738)
षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा।
तद्रा प्रादुर्भवत्यषां पूर्वसंकल्पजं मनः ॥ 3-2-67(15739)
मनो यस्येन्द्रियस्येह विषयान्याति सेवितुम्।
वस्यौत्सुक्यं संभवति प्रवृत्तिश्चोपजायते ॥ 3-2-68(15740)
ततः संकल्पवीर्येण कामेन विषयेषुभिः।
विद्धः पतति लोभाग्नौज्योतिर्लोभात्पतङ्गवत् ॥ 3-2-69(15741)
ततो दारैर्विहारैश्च मोहितश्च यथेप्सया।
महामोहमुखे मग्नो नात्मानमवबुध्यते ॥ 3-2-70(15742)
एवं पतति संसारे तासुतास्विह योनिषु।
अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत् ॥ 3-2-71(15743)
ब्रह्मादिषु तृणान्तेषु भूतेषु परिवर्तते।
जले भुवि तथाऽऽकाशे जायमानः पुनःपुनः ॥ 3-2-72(15744)
अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु।
ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः ॥ 3-2-73(15745)
तदिदं वेदवचनं कुरु कर्म त्यजेति च।
तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत् ॥ 3-2-74(15746)
इज्याध्ययनदानानि तपः सत्यं क्षमा दमः।
अलोभ इतिमार्गोऽयं धर्ममस्याष्टविधः स्मृतः ॥ 3-2-75(15747)
अत्र पूर्वश्चतुर्वर्गः पितृयाणपथे स्थितः।
कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत् ॥ 3-2-76(15748)
उत्तरो देवयानस्तु सद्भिराचरितः सदा।
अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत् ॥ 3-2-77(15749)
सम्यक्संकल्पसंबन्धात्सम्यक्चेन्द्रियनिग्रहात्।
सम्यग्द्व्रतविशेषाच्च सम्यक्च गुरुसेवनात् ॥ 3-2-78(15750)
सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात्।
सम्यक्कर्मोपसंन्यासात्सम्यक्चित्तनिरोधनात् ॥ 3-2-79(15751)
एवं कर्माणि कुर्वन्ति संसारविजिगीषवः।
रागद्वेषविनिर्मुक्ता ऐश्वर्यवशमागताः ॥ 3-2-80(15752)
रुद्राः साध्यास्तथाऽऽदित्या वसवोऽथ तथाश्विनौ।
योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः ॥ 3-2-81(15753)
तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम्।
तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत ॥ 3-2-82(15754)
पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते।
तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै ॥ 3-2-83(15755)
सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहम्।
तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम् ॥ 3-2-84(15756)
इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-2-1 प्रभातायामरुणोदयेन उद्दीपितायाम् ॥ 3-2-11 अनुध्यानेन इष्टचिन्तनेन। जप्येन स्वस्त्ययनेन तथा विश्वासकरणैः सह रंस्यामहे इति ध. पाठः ॥ 3-2-12 प्रत्यादेशं धिक्कारम् ॥ 3-2-15 अध्यात्मं आत्मानमधिकृत्य प्रवृत्तं शास्त्रमध्यात्मं वेदान्तस्तत्र रतः। योगश्चित्तवृत्तिनिरोधः ॥ 3-2-16 शोकःस्थीयतेऽनेनेति व्युत्पत्त्या स्थानशब्दो हेतुवचनः। भयस्थानशतानि चेति झ. पाठः ॥ 3-2-20 गुर्देषु दुस्तरेषु शारीरदुःखेषु। आपत्सु स्त्रीकर्षणादिषु ॥ 3-2-21 आत्मव्यवस्थानकराः मनःस्थैर्यहेतवः ॥ 3-2-22 व्याससमासाभ्यां विस्तरसंक्षेपाभ्याम् ॥ 3-2-23 अनिष्टं कणअटकादिः। श्रमो व्यायामः ॥ 3-2-24 प्रतिकारादौषधादिभिरुपशमनात् आधिप्रशमनमविचिनतनात्। इदमेव क्रियायोगबलम् ॥ 3-2-25 प्रागेव मानसस्य शमं कुर्वते। प्रियाक्यानैरनुकूलवचनैः। संभोगोपनयैः स्त्र्यादिसमर्पणैः। मतिमन्तो ह्यतो वैद्या इति ख. च. झ. पाठः ॥ 3-2-28 स्नेहो रागः सज्जते प्रवर्तते ॥ 3-2-29 आयासः क्लेशः ॥ 3-2-32 विप्रयोगे विषयेण सह वियोगे त्यागी न किंतु सत्यपि समागमे यो विषयदोषदर्शी स एव त्यागी। स एव च विरागं भजते ॥ 3-2-34 युक्तेषु नित्यवस्तुप्राप्तये उद्युक्तेषु। कृतात्मसु ध्यानेन संस्कृतचित्तेषु। तेषु प्रसिद्धेषु स्नेहो रागो न सज्जते न सङ्गं प्राप्नोति ॥ 3-2-35 रागः रम्यवस्तुदर्शने चित्तस्योत्फुल्लता। कामस्तल्लिप्सा। इच्छा लब्धे तस्मिन् रुच्यतिशयात्पुनस्तदभिलाषः। पुनःपुनस्तल्लाभेप्यतृप्तिस्तृष्णा ॥ 3-2-37 जीर्यतः जरामृत्युग्रस्तस्य ॥ 3-2-38 अयः तप्तायःपिण्डं अनलो वह्निः ॥ 3-2-39 अकृतात्मा अनिर्जितचेताः ॥ 3-2-42 अर्थश्रेयसि अर्थसाध्ये श्रेयसि ज्योतिष्टोमादौ ॥ 3-2-46 पिपासायाः तृष्णायाः ॥ 3-2-48 संचयान् अर्थान्। तज्जान् अर्थत्यागजान्। अनीहार्थः यदृच्छालब्धोऽर्थः ॥ 3-2-50 अर्थतः धनात् ॥ 3-2-51 अर्थोपभोगः विषयोपभोगः। अर्थेप्सुता घनेप्सुता ॥ 3-2-53 दृश्यते पञ्चमहायज्ञेषु। अपचमानेभ्यः यत्यादिभ्यः ॥ 3-2-54 तृणानि आसनार्थानि ॥ 3-2-58 वृथा श्राद्यज्ञादिनिमित्तंविना ॥ 3-2-59 विश्वं सर्वजातीयं प्राणिजातं देवो देवता यस्मिंस्तद्विश्वदेवम्। स्वार्थे तद्धितः। वैश्वदेवं नाम कर्म ॥ 3-2-62 अपरिक्लिष्टं कार्पण्यं विना। अध्वनि वर्तते मार्गस्थाय ॥ 3-2-65 विघसं देवताद्युपयुक्तशेषं कामुको बहुकरोति। इन्द्रियार्थाः शब्दादयः ॥ 3-2-66 हारिभिः हरणशीलैः ॥ 3-2-68 इन्द्रियस्येन्द्रियाणां विषयान् शब्दादीन् ॥ 3-2-74 इति च वेदवचनमित्यन्वयः। फलेच्छां विनैः समाचरेदित्यर्थः ॥ 3-2-76 कर्तव्यमवश्यानुष्ठेयं नित्याग्निहोत्रसंध्योपासनादि। अभिमानात्सङ्गात् ॥ 3-2-77 अष्टाङ्गेन वक्ष्यमाणसंकल्पसंबन्धाद्यङ्गाष्टकवता तदाचरेदिति पूर्वेण संबन्धः। विशुद्धात्मा शुद्धचित्तः ॥ 3-2-78 संकल्पो मानसं कर्म तस्य संबन्धो निरोधः ॥ 3-2-83 कर्ममयी यज्ञयुद्धादिकर्मरूपसाधनप्रधाना सिद्धिः। पितृमातृमयी परलोकेहलोकफलप्रधाना ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|